हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Bala Trailokya Vijaya Kavacham – श्री बाला त्रैलोक्यविजय कवचम्
श्रीभैरव उवाच ।
अधुना ते प्रवक्ष्यामि कवचं मन्त्रविग्रहम् ।
त्रैलोक्यविजयं नाम रहस्यं देवदुर्लभम् ॥ १ ॥
श्रीदेव्युवाच ।
या देवी त्र्यक्षरी बाला चित्कला श्रीसरस्वती ।
महाविद्येश्वरी नित्या महात्रिपुरसुन्दरी ॥ २ ॥
तस्याः कवचमीशान मन्त्रगर्भं परात्मकम् ।
त्रैलोक्यविजयं नाम श्रोतुमिच्छामि तत्त्वतः ॥ ३ ॥
श्रीभैरव उवाच ।
देवदेवि महादेवि बालाकवचमुत्तमम् ।
मन्त्रगर्भं परं तत्त्वं लक्ष्मीसंवर्धनं परम् ॥ ४ ॥
सर्वस्वं मे रहस्यं तु गुह्यं त्रिदशगोपितम् ।
प्रवक्ष्यामि तव स्नेहान्नाख्येयं यस्य कस्यचित् ॥ ५ ॥
यद्धृत्वा कवचं देव्या मातृकाक्षरमण्डितम् ।
नारायणोऽपि दैत्येन्द्रान् जघान रणमण्डले ॥ ६ ॥
त्र्यम्बकं कामदेवोऽपि बलं शक्रो जघान हि ।
कुमारस्तारकं दैत्यमन्धकं चन्द्रशेखरः ॥ ७ ॥
अवधीद्रावणं रामो वातापिं कुम्भसम्भवः ।
कवचस्यास्य देवेशि धारणात्पठनादपि ॥ ८ ॥
स्रष्टा प्रजापतिर्ब्रह्मा विष्णुस्त्रैलोक्यपालकः ।
शिवोऽणिमादिसिद्धीशो मघवान् देवनायकः ॥ ९ ॥
सूर्यस्तेजोनिधिर्देवि चन्द्रस्ताराधिपः स्थितः ।
वह्निर्महोर्मिनिलयो वरुणोऽपि दिशां पतिः ॥ १० ॥
समीरो बलवांल्लोके यमो धर्मनिधिः स्मृतः ।
कुबेरो निधिनाथोऽस्ति नैरृतिः सर्वराक्षसाम् ॥ ११ ॥
ईश्वरः शङ्करो रुद्रो देवि रत्नाकरोऽम्बुधिः ।
अस्य स्मरणमात्रेण कुले तस्य कुलेश्वरि ॥ १२ ॥
आयुः कीर्तिः प्रभा लक्ष्मीर्वृद्धिर्भवति सन्ततम् ।
कवचं सुभगं देवि बालायाः कौलिकेश्वरि ॥ १३ ॥
ऋषिः स्याद्दक्षिणामूर्तिः पङ्क्तिश्छन्द उदाहृतः ।
बाला सरस्वती देवि देवता त्र्यक्षरी स्मृता ॥ १४ ॥
बीजं तु वाग्भवं प्रोक्तं शक्तिः शक्तिरुदाहृता ।
कीलकं कामराजं तु फडाशाबन्धनं तथा ।
भोगापवर्गसिद्ध्यर्थं विनियोगः प्रकीर्तितः ॥ १५ ॥
अकुलकुलमयन्ती चक्रमध्ये स्फुरन्ती
मधुरमधु पिबन्ती कण्टकान् भक्षयन्ती ।
दुरितमपहरन्ती साधकान् पोषयन्ती
जयतु जयतु बाला सुन्दरी क्रीडयन्ती ॥ १६ ॥
ऐं बीजं मे शिरः पातु क्लीं बीजं भ्रुकुटीं मम ।
सौः फालं पातु मे बाला ऐं क्लीं सौः नयने मम ॥ १७ ॥
अं आं इं ईं श्रुती पातु बाला कामेश्वरी मम ।
उं ऊं ऋं ॠं सदा पातु मम नासापुटद्वयम् ॥ १८ ॥
लुं* लूं* एं ऐं पातु गण्डौ ऐं क्लीं सौः त्रिपुराम्बिका ।
ओं औं अं अः मुखं पातु क्लीं ऐं सौः त्रिपुरेश्वरी ॥ १९ ॥
कं खं गं घं ङं करौ मे सौः ऐं क्लीं शत्रुमर्दिनी ।
चं छं जं झं ञं पातु मे कुक्षिं ऐं कुलनायिका ॥ २० ॥
टं ठं डं ढं णं मे पातु वक्षः क्लीं भगमालिनी ।
तं थं दं धं नं मे पातु बाहू सौः जयदायिनी ॥ २१ ॥
पं फं बं भं मं मे पातु पार्श्वौ परमसुन्दरी ।
यं रं लं वं पातु पृष्ठं ऐं क्लीं सौः विश्वमातृका ॥ २२ ॥
शं षं सं हं पातु नाभिं भगवत्यमृतेश्वरी ।
लं क्षं कटिं सदा पातु क्लीं क्लीं क्लीं मातृकेश्वरी ॥ २३ ॥
ऐं ऐं ऐं पातु मे लिङ्गं भगं मे भगगर्भिणी ।
सौः सौः सौः पातु मे ऊरू वीरमाताऽष्टसिद्धिदा ॥ २४ ॥
सौः ऐं क्लीं जानू मे पातु महामुद्राभिमुद्रिता ।
सौः क्लीं ऐं पातु मे जङ्घे बाला त्रिभुवनेश्वरी ॥ २५ ॥
क्लीं ऐं सौः पातु गुल्फौ मे त्रैलोक्यविजयप्रदा ।
ऐं क्लीं सौः पातु मे पादौ बाला त्र्यक्षररूपिणी ॥ २६ ॥
शीर्षादिपादपर्यन्तं सर्वावयवसम्युतम् ।
पायात्पादादि शीर्षान्तं ऐं क्लीं सौः सकलं वपुः ॥ २७ ॥
ब्राह्मी मां पूर्वतः पातु वह्नौ वाराहिकाऽवतु ।
माहेश्वरी दक्षिणे च इन्द्राणी पातु नैरृतौ ॥ २८ ॥
पश्चिमे पातु कौमारी वायव्ये चण्डिकाऽवतु ।
वैष्णवी पातु कौबेर्यां ईशान्यां नारसिंहका ॥ २९ ॥
प्रभाते भैरवी पातु मध्याह्ने योगिनी तथा ।
सायाह्ने वटुका पातु अर्धरात्रे शिवोऽवतु ॥ ३० ॥
निशान्ते सर्वगा पातु सर्वदा चक्रनायिका ।
रणे नागकुले द्यूते विवादे शत्रुसङ्कटे ॥ ३१ ॥
सर्वत्र सर्वदा पातु ऐं क्लीं सौः बीजभूषिता ॥ ३२ ॥
इतीदं कवचं दिव्यं बालायाः सारमुत्तमम् ।
मन्त्रविद्यामयं तत्त्वं मातृकाक्षरभूषितम् ॥ ३३ ॥
ब्रह्मविद्यामयं ब्रह्मसाधनं मन्त्रसाधनम् ।
यः पठेत्सततं भक्त्या धारयेद्वा महेश्वरि ॥ ३४ ॥
तस्य सर्वार्थसिद्धिः स्यात्साधकस्य न संशयः ।
रवौ भूर्जे लिखित्वेदं अर्चयेद्धारयेत्ततः ॥ ३५ ॥
वन्ध्यापि काकवन्ध्यापि मृतवत्सापि पार्वति ।
लभेत्पुत्रान् महावीरान् मार्कण्डेयसमायुषः ॥ ३६ ॥
वित्तं दरिद्रो लभते मतिमानयशःस्त्रियः ।
य एतद्धारयेद्वर्म सङ्ग्रामे स रिपून् जयेत् ॥ ३७ ॥
जित्वा वैरिकुलं घोरं कल्याणं गृहमाविशेत् ।
बाहौ कण्ठे तथा देवि धारयेन्मूर्ध्नि सन्ततम् ॥ ३८ ॥
इह लोके धनारोग्यं परमायुर्यशः श्रियम् ।
प्राप्य भक्त्या नरो भोगानन्ते याति परं पदम् ॥ ३९ ॥
इदं रहस्यं परमं सर्वतस्तूत्तमोत्तमम् ।
गुह्याद्गुह्यमिमं नित्यं गोपनीयं स्वयोनिवत् ॥ ४० ॥
इति श्रीरुद्रयामले श्री बाला त्रैलोक्यविजय कवचम् ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.